अमरकोशः


श्लोकः

उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनो: । स्कन्धो भुजशिरोऽसोऽस्त्री सन्धी तस्यैव जत्रुणी ॥ ७८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उरस् उरः नपुंसकलिङ्गः इयर्ति । असुन् उणादिः सकारान्तः
2 वत्स वत्सम् नपुंसकलिङ्गः वदति सामर्थ्यम् । उणादिः अकारान्तः
3 वक्षस् वक्षः नपुंसकलिङ्गः वक्षति । असुन् उणादिः सकारान्तः
4 पृष्ठ पृष्ठम् नपुंसकलिङ्गः पृष्यते । थक् उणादिः अकारान्तः
5 स्कन्धस् स्कन्धः पुंलिङ्गः स्कद्यते । असुन् उणादिः सकारान्तः
6 भुजशिरस् भुजशिरः नपुंसकलिङ्गः भुजस्य शिरः ॥ तत्पुरुषः समासः सकारान्तः
7 अंस अंसः पुंलिङ्गः, नपुंसकलिङ्गः अस्यते समाहन्यते भारादिना । घञ् कृत् अकारान्तः
8 जत्रु जत्रुम् नपुंसकलिङ्गः जायते बाहुरस्मात् । रु उणादिः उकारान्तः