अमरकोशः


श्लोकः

वराहः सूकरो घृष्टि: कोल: पोत्री किरः किटि: । दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वराह वराहः पुंलिङ्गः वरं श्रेष्ठमाहन्ति । कृत् अकारान्तः
2 सूकर सूकरः पुंलिङ्गः सुवं प्रसवं करोति । कृत् अकारान्तः
3 घृष्टि घृष्टिः पुंलिङ्गः घर्षति । क्तिच् कृत् इकारान्तः
4 कोल कोलः पुंलिङ्गः कोलति पीनत्वात् । अच् कृत् अकारान्तः
5 पोत्रिन् पोत्री पुंलिङ्गः पोत्रं मुखाग्रमस्त्यस्य । इनि तद्धितः नकारान्तः
6 किर किरः पुंलिङ्गः किरति । कृत् अकारान्तः
7 किटि किटिः पुंलिङ्गः केटति । इन् उणादिः इकारान्तः
8 दंष्ट्रिन् दंष्ट्री पुंलिङ्गः दंष्ट्रास्त्यस्य । इनि तद्धितः नकारान्तः
9 घोणिन् घोणी पुंलिङ्गः घोणा नासास्य । इनि तद्धितः नकारान्तः
10 स्तब्धरोमन् स्तब्धरोमा पुंलिङ्गः स्तब्धानि रोमाणि यस्य ॥ बहुव्रीहिः समासः नकारान्तः
11 क्रोड क्रोडः पुंलिङ्गः क्रुडति । घञ् कृत् अकारान्तः
12 भूदार भूदारः पुंलिङ्गः भुवं दारयति । अण् कृत् अकारान्तः