अमरकोशः


श्लोकः

पुलोमजा शचीन्द्राणी नगरी त्वमरावती । हय उच्चैः श्रवाः सूतो मातलिर्नन्दनं वनम् ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुलोमजा पुलोमजा स्त्रीलिङ्गः कृत् आकारान्तः
2 शची शची स्त्रीलिङ्गः शचते । इन् उणादिः ईकारान्तः
3 इन्द्राणी इन्द्राणी स्त्रीलिङ्गः इन्द्रस्य स्त्री । ङीष् स्त्रीप्रत्ययः ईकारान्तः
4 अमरावती अमरावती स्त्रीलिङ्गः अमरा: सन्त्यस्याम् । मतुप् तद्धितः ईकारान्तः
5 उच्चैःश्रवस् उच्चैश्रवाः पुंलिङ्गः उच्चैः श्रवसी यस्य । बहुव्रीहिः समासः सकारान्तः
6 मातलि मातलिः पुंलिङ्गः मतं लाति । इञ् तद्धितः इकारान्तः
7 नन्दन नन्दनः नपुंसकलिङ्गः नन्दयति । ल्यु कृत् अकारान्तः