अमरकोशः


श्लोकः

उपशायो विशायश्च पर्यायशयनार्थकौ । अर्तनं च ऋतीया च हृणीया च घृणार्थके ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उपशाय उपशायः पुंलिङ्गः उपशयनम् घञ् कृत् अकारान्तः
2 विशाय विशायः पुंलिङ्गः विशयनम् घञ् कृत् अकारान्तः
3 अर्तन अर्तनम् नपुंसकलिङ्गः घञ् कृत् अकारान्तः
4 ऋतीया ऋतीया स्त्रीलिङ्गः ईयङ् कृत् आकारान्तः
5 हृणीया हृणीया स्त्रीलिङ्गः यक् कृत् आकारान्तः
6 घृणा घृणा स्त्रीलिङ्गः आकारान्तः