अमरकोशः


श्लोकः

कारु: शिल्पी संहतैस्तैर्द्वयोः श्रेणि: सजातिभिः । कुलक: स्यात्कुलश्रेष्ठी मालाकारस्तु मालिक: ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कारु कारुः पुंलिङ्गः करोति । उण् उणादिः उकारान्तः
2 शिल्पिन् शिल्पिन् पुंलिङ्गः शिल्पमस्यास्ति । इनि तद्धितः नकारान्तः
3 श्रेणी श्रेणी पुंलिङ्गः, स्त्रीलिङ्गः श्रयति, श्रीयते, वा । नि उणादिः ईकारान्तः
4 कुलक कुलकः पुंलिङ्गः कोलति । क्वुन् उणादिः अकारान्तः
5 कुलश्रेष्टिन् कुलश्रेष्टिन् पुंलिङ्गः कुलश्रेष्ठत्वमस्यास्ति । इनि तद्धितः नकारान्तः
6 मालाकार मालाकारः पुंलिङ्गः मालां करोति । अण् कृत् अकारान्तः
7 मालिक मालिकः पुंलिङ्गः मालास्यास्ति । ठन् तद्धितः अकारान्तः