अमरकोशः


श्लोकः

इक्ष्वाकुः कटुतुम्बी स्यात्तुम्ब्यलाबूरुभे समे । चित्रा गवाक्षी गोडुम्बा विशाला त्विन्द्रवारुणी ॥ १५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 इक्ष्वाकु इक्ष्वाकुः स्त्रीलिङ्गः इक्षुमाकरोति । डु कृत् उकारान्तः
2 कटुतुम्बी कटुतुम्बी स्त्रीलिङ्गः कटुश्चासौ तुम्बी च ॥ तत्पुरुषः समासः ईकारान्तः
3 तुम्बी तुम्बी स्त्रीलिङ्गः तुम्बति रुचिम् । अच् कृत् ईकारान्तः
4 अलाबू अलाबूः स्त्रीलिङ्गः न लम्बते । उणादिः ऊकारान्तः
5 चित्रा चित्रा स्त्रीलिङ्गः चीयते । उणादिः आकारान्तः
6 गवाक्षी गवाक्षी स्त्रीलिङ्गः गां भूमिमक्ष्णोति । अण् कृत् ईकारान्तः
7 गोडुम्बा गोडुम्बा स्त्रीलिङ्गः गां भुवं तुम्बति । कृत् आकारान्तः
8 विशाला विशाला स्त्रीलिङ्गः वि शलति । कृत् आकारान्तः
9 इन्द्रवारुणी इन्द्रवारुणी स्त्रीलिङ्गः इन्द्रं वारयति । उनन् उणादिः ईकारान्तः