अमरकोशः


श्लोकः

भूतदी शीतभीरुश्च सैवास्फोता वनोद्भवा । शेफालिका तु सुवहा निर्गुण्डी नीलिका च सा ॥ ७० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भूपदी भूपदी स्त्रीलिङ्गः भुवि पदमस्याः । बहुव्रीहिः समासः ईकारान्तः
2 शीतभीरु शीतभीरुः पुंलिङ्गः शीताद्भीरुः ॥ तत्पुरुषः समासः उकारान्तः
3 आस्फोता आस्फोता स्त्रीलिङ्गः आस्फोटयति । अच् कृत् आकारान्तः
4 शेफालिका शेफालिका स्त्रीलिङ्गः शेरते शेफा अलयोऽस्याम् । बहुव्रीहिः समासः आकारान्तः
5 सुवहा सुवहा स्त्रीलिङ्गः सुष्ठु वहत्यामोदम् । अच् कृत् आकारान्तः
6 निर्गुण्डी निर्गुण्डी स्त्रीलिङ्गः ईकारान्तः
7 नीलिका नीलिका स्त्रीलिङ्गः कन् तद्धितः आकारान्तः