अमरकोशः


श्लोकः

पुंनपुंसकयोर्वप्रः कैदारः क्षेत्रमस्य तु । कैदारकं स्यात्कैदार्यं क्षैत्रं केदारिकं गणे ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वप्र वप्रः पुंलिङ्गः, नपुंसकलिङ्गः उप्यतेऽत्र । रन् उणादिः अकारान्तः
2 केदार केदारः पुंलिङ्गः, नपुंसकलिङ्गः के जले शिरसि वा दारोऽस्य । बहुव्रीहिः समासः अकारान्तः
3 क्षेत्र क्षेत्रम् नपुंसकलिङ्गः क्षीयते धान्यैरत्र । ष्ट्रन् उणादिः अकारान्तः
4 कैदारक कैदारकम् नपुंसकलिङ्गः केदाराणां समूहः । वुञ् तद्धितः अकारान्तः
5 कैदार्य कैदार्यम् नपुंसकलिङ्गः केदाराणां समूहः । यञ् तद्धितः अकारान्तः
6 क्षैत्र क्षैत्रम् नपुंसकलिङ्गः क्षेत्राणां समूहः । अण् तद्धितः अकारान्तः
7 कैदारिक कैदारिकम् नपुंसकलिङ्गः ठञ् तद्धितः अकारान्तः