अमरकोशः


श्लोकः

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा । सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना ॥ ३२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पर्येषणा पर्येषणा स्त्रीलिङ्गः युच् कृत् आकारान्तः
2 परीष्टि परीष्टिः स्त्रीलिङ्गः क्तिन् कृत् इकारान्तः
3 अन्वेषणा अन्वेषणा स्त्रीलिङ्गः युच् कृत् आकारान्तः
4 गवेषणा गवेषणा स्त्रीलिङ्गः युच् कृत् आकारान्तः
5 सनि सनिः स्त्रीलिङ्गः सननम् । इन् उणादिः इकारान्तः
6 अध्येषणा अध्येषणा स्त्रीलिङ्गः अध्येषणम् । युच् कृत् आकारान्तः
7 याञ्चा याञ्चा स्त्रीलिङ्गः याचनम् । नङ् कृत् आकारान्तः
8 अभिशस्ति अभिशस्तिः स्त्रीलिङ्गः अभिशंसनम् । क्तिन् स्त्रीप्रत्ययः इकारान्तः
9 याचना याचना स्त्रीलिङ्गः युच् कृत् आकारान्तः
10 अर्थना अर्थना स्त्रीलिङ्गः युच् कृत् आकारान्तः