अमरकोशः


श्लोकः

व्याधिः कुष्ठं पारिभाव्यं व्याप्यं पाकलमुत्पलम् । शङ्खिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः ॥ १२६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्याधि व्याधिः पुंलिङ्गः विगत आधिरनेन । बहुव्रीहिः समासः इकारान्तः
2 कुष्ठ कुष्ठम् नपुंसकलिङ्गः कुष्णाति रोगम् । क्थन् उणादिः अकारान्तः
3 पारिभाव्य पारिभाव्यम् नपुंसकलिङ्गः परिभावे साधुः । यत् तद्धितः अकारान्तः
4 व्याप्य व्याप्यम् नपुंसकलिङ्गः व्याप्यते । ण्यत् कृत् अकारान्तः
5 पाकल पाकलम् नपुंसकलिङ्गः पाकं लाति । कृत् अकारान्तः
6 उत्पल उत्पलम् नपुंसकलिङ्गः उत्पलति । अच् कृत् अकारान्तः
7 शङ्खिनी शङ्खिनी स्त्रीलिङ्गः शङ्खाः सन्त्यस्याः । इनि तद्धितः ईकारान्तः
8 चोरपुष्पी चोरपुष्पी स्त्रीलिङ्गः चोर इव पुष्पं यस्याः । बहुव्रीहिः समासः ईकारान्तः
9 केशिनी केशिनी स्त्रीलिङ्गः केशाः सन्त्यस्याः । इनि तद्धितः ईकारान्तः
10 वितुन्नक वितुन्नकः पुंलिङ्गः वितुद्यते स्म । क्त कृत् अकारान्तः