अमरकोशः


श्लोकः

खलपूः स्याद्बहुकरो दीर्घसूत्रश्चिरक्रियः । जाल्मोऽसमीक्ष्यकारी स्यात्कुण्ठो मन्दः क्रियासु यः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 खलपू खलपू पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः खलं पुनाति । क्विप् कृत् ऊकारान्तः
2 बहुकर बहुकरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहु करोति, भुवं सम्मार्ष्टि । अच् कृत् अकारान्तः
3 दीर्घसूत्र दीर्घसूत्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दीर्घं सूत्रं व्यवस्था यस्य ॥ बहुव्रीहिः समासः अकारान्तः
4 चिरक्रिय चिरक्रियः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चिरा क्रिया यस्य ॥ बहुव्रीहिः समासः अकारान्तः
5 जाल्म जाल्मः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जालयति, जाल्यते वा । मः बाहुलकात् अकारान्तः
6 असमीक्ष्यकारिन् असमीक्ष्यकारिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः असमीक्ष्याविचार्यं कर्तुं शीलमस्य । णिनि कृत् नकारान्तः
7 कुण्ठ कुण्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कुण्ठति । अच् कृत् अकारान्तः