अमरकोशः


श्लोकः

प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः । पद्माट उरणाख्यश्च पलाण्डुस्तु सुकन्दकः ॥ १४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रपुन्नाड प्रपुन्नाडः पुंलिङ्गः पुमांसं नाडयति । अण् कृत् अकारान्तः
2 एडगज एडगजः पुंलिङ्गः एडो मेष एव गजो यस्य । बहुव्रीहिः समासः अकारान्तः
3 दद्रुघ्न दद्रुघ्नः पुंलिङ्गः दद्रं हन्ति । टक् कृत् अकारान्तः
4 चक्रमर्दक चक्रमर्दकः पुंलिङ्गः चक्रं दद्रुं मुमृद्नाति । अण् कृत् अकारान्तः
5 पद्माट पद्माटः पुंलिङ्गः पद्ममिव पद्मां वा पद्मसमूहं वाऽटति । अण् कृत् अकारान्तः
6 उरणाख्य उरणाख्यः पुंलिङ्गः उरणस्य मेषस्याख्याऽस्य ॥ तत्पुरुषः समासः अकारान्तः
7 पलाण्डु पलाण्डुः पुंलिङ्गः पलति । आण्डु बाहुलकात् उकारान्तः
8 सुकन्दक सुकन्दकः पुंलिङ्गः शोभनमतीव वा कन्दयति । कन् तद्धितः अकारान्तः