अमरकोशः


श्लोकः

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च । शक्ति: पराक्रम: प्राणौ विक्रमस्त्वतिशक्तिता ॥ १०२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्रविण द्रविणम् नपुंसकलिङ्गः द्रवत्यनेन । इनन् उणादिः अकारान्तः
2 तरस् तरः नपुंसकलिङ्गः तरत्यनेन । असुन् उणादिः सकारान्तः
3 सहस् सहः नपुंसकलिङ्गः सह्यतेऽनेन । असुन् उणादिः सकारान्तः
4 बल बलम् नपुंसकलिङ्गः वलते(त्य)ऽनेन । कृत् अकारान्तः
5 शौर्य शौर्यम् नपुंसकलिङ्गः शूरस्य भावः कर्म वा । ष्यञ् तद्धितः अकारान्तः
6 स्थामन् स्थामन्म् नपुंसकलिङ्गः तिष्ठत्यनेन । मनिन् उणादिः नकारान्तः
7 शुष्म शुष्मम् नपुंसकलिङ्गः शुष्यत्यनेनारिः । मन् उणादिः अकारान्तः
8 शक्ति शक्तिः स्त्रीलिङ्गः शक्यतेऽनया । क्तिन् स्त्रीप्रत्ययः इकारान्तः
9 पराक्रम पराक्रमः पुंलिङ्गः पराक्रम्यतेऽनेन । घञ् कृत् अकारान्तः
10 प्राण प्राणः पुंलिङ्गः प्राणित्यनेन । घञ् कृत् अकारान्तः
11 विक्रम विक्रमः पुंलिङ्गः विक्रमणम् । घञ् कृत् अकारान्तः
12 अतिशक्तिता अतिशक्तिता स्त्रीलिङ्गः अतिशयिता शक्तिर्यस्य । तस्य भावः । तल् तद्धितः आकारान्तः