अमरकोशः


श्लोकः

व्रणोऽस्त्रियामीर्ममरु: क्लीबे नाडीव्रणः पुमान् । कोठो मण्डलकं कुष्ठश्वित्रे दुर्नामकार्शसी ॥ ५४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्रण व्रणः पुंलिङ्गः, नपुंसकलिङ्गः व्रणाति । अच् कृत् अकारान्तः
2 ईर्म ईर्म नपुंसकलिङ्गः ईरयति सुखम् । मन् बाहुलकात् अकारान्तः
3 अरुस् अरुः नपुंसकलिङ्गः इयर्ति । उस् उणादिः सकारान्तः
4 नाडीव्रण नाडीव्रणः पुंलिङ्गः नाड्यां व्रणः ॥ तत्पुरुषः समासः अकारान्तः
5 कोठ कोठः पुंलिङ्गः कुण्ठति । अच् कृत् अकारान्तः
6 मण्डलक मण्डलकम् नपुंसकलिङ्गः मण्डलमिव । कन् तद्धितः अकारान्तः
7 कुष्ठ कुष्ठम् नपुंसकलिङ्गः कुष्णात्यङ्गम् । क्थन् उणादिः अकारान्तः
8 श्वित्र श्वित्रम् नपुंसकलिङ्गः श्वेतते । रक् उणादिः अकारान्तः
9 दुर्नामक दुर्नामकम् नपुंसकलिङ्गः दुष्टं नामास्य । बहुव्रीहिः समासः अकारान्तः
10 अर्शस् अर्शस्म् नपुंसकलिङ्गः ऋच्छति । असुन् उणादिः सकारान्तः