अमरकोशः


श्लोकः

साधारणं तु सामान्यमेकाकी त्वेक एककः । भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि ॥ ८२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 साधारण साधारणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सह आधारणेन अञ् तद्धितः अकारान्तः
2 सामान्य सामान्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सह मानेन, समानस्य भावः ष्यञ् तद्धितः अकारान्तः
3 एकाकिन् एकाकिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एक एव आकिनिच् तद्धितः नकारान्तः
4 एक एकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कन् तद्धितः अकारान्तः
5 एकक एककः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कन् तद्धितः अकारान्तः
6 भिन्न भिन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भिन्नोऽर्थो येषां ते बहुव्रीहिः समासः अकारान्तः
7 अन्यतर अन्यतरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्य एव तरप् कृत् अकारान्तः
8 एक एकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एति कन् उणादिः अकारान्तः
9 त्व त्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तनोति उणादिः अकारान्तः
10 अन्य अन्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अनिति उणादिः अकारान्तः
11 इतर इतरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एः कामस्य तरः अच् कृत् अकारान्तः