अमरकोशः


श्लोकः

वैशाखमन्थमन्थानमन्थानो मन्थदण्डके । कुठरो दण्डविष्कम्भे मन्थनी गर्गरी समे ॥ ७४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वैशाख वैशाखः पुंलिङ्गः विशाखा प्रयोजनमस्य । अण् तद्धितः अकारान्तः
2 मन्थ मन्थः पुंलिङ्गः मथ्यतेऽनेन । घञ् कृत् अकारान्तः
3 मन्थान मन्थानः पुंलिङ्गः मन्थति । आनच् बाहुलकात् अकारान्तः
4 मन्था मन्था पुंलिङ्गः मथ्यतेऽनेन । इनि उणादिः आकारान्तः
5 मन्थदण्डक मन्थदण्डकः पुंलिङ्गः मन्थस्य दण्डः ॥ तत्पुरुषः समासः अकारान्तः
6 कुठर कुठरः पुंलिङ्गः कुठति । अरन् बाहुलकात् अकारान्तः
7 दण्डविष्कम्भ दण्डविष्कम्भः पुंलिङ्गः दण्डं विष्कभ्नाति । अण् कृत् अकारान्तः
8 मन्थनी मन्थनी स्त्रीलिङ्गः मथ्यतेऽस्याम् । ल्युट् कृत् ईकारान्तः
14 गर्गरी गर्गरी स्त्रीलिङ्गः गर्ग' इति शब्दं राति । कृत् ईकारान्तः