अमरकोशः


श्लोकः

रथकारस्तु माहिष्यात्करण्यां यस्य सम्भवः । स्याच्चण्डालस्तु जनितो ब्राह्मण्यां वृषलेन यः ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रथकार रथकारः पुंलिङ्गः रथं करोति । अण् कृत् अकारान्तः
2 चण्डाल चण्डालः पुंलिङ्गः चण्डति । आलञ् उणादिः अकारान्तः