अमरकोशः


श्लोकः

आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते । उभौ त्वात्मम्भरिः कुक्षिंभरिः स्वोदरपूरके ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आद्यून आद्यूनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आदेवीत् । क्तः कृत् अकारान्तः
2 औदरिक औदरिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उदरे प्रसितः । ठक् तद्धितः अकारान्तः
3 आत्मम्भरि आत्मम्भरिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आत्मानं कुक्षिं च बिभर्ति । निपातनात् इकारान्तः
4 कुक्षिम्भरि कुक्षिम्भरिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निपातनात् इकारान्तः