अमरकोशः


श्लोकः

वृक्षादनी वृक्षभेदी टङ्कः पाषाणदारणः । क्रकचोऽस्त्री करपत्रमारा चर्मप्रभेदिका ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वृक्षादन वृक्षादनः पुंलिङ्गः वृक्षमत्ति । ल्युट् कृत् अकारान्तः
2 वृक्षभेदिन् वृक्षभेदी पुंलिङ्गः वृक्षं भेत्तुं शीलमस्य । णिनि कृत् नकारान्तः
3 टङ्क टङ्कः पुंलिङ्गः टङ्कयति । अच् कृत् अकारान्तः
4 पाषाणदारण पाषाणदारणः पुंलिङ्गः पाषाणोदार्यतेऽनेन । ल्युट् कृत् अकारान्तः
5 क्रकच क्रकचः पुंलिङ्गः, नपुंसकलिङ्गः ‘क्र' इति कचति । अच् कृत् अकारान्तः
6 करपत्त्र करपत्त्रम् नपुंसकलिङ्गः करेण कराद्वा पतति । ष्ट्रन् उणादिः अकारान्तः
7 आरा आरा स्त्रीलिङ्गः आ इयर्ति, ऋच्छति वा । अच् कृत् आकारान्तः
8 चर्मप्रभेदिका चर्मप्रभेदिका स्त्रीलिङ्गः चर्मणः प्रभेदिका ॥ तत्पुरुषः समासः आकारान्तः