अमरकोशः


श्लोकः

खलानां खलिनी खल्याप्यथ मानुष्यकं नृणाम् । ग्रामता जनता धूम्या पाश्या गल्या पृथक्पृथक् ॥ अपि साहस्रकारीषचार्मणाथर्वणादिकम् ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 खलिनी खलिनी स्त्रीलिङ्गः खलानां समूहः इनि तद्धितः ईकारान्तः
2 खल्या खल्या स्त्रीलिङ्गः तद्धितः आकारान्तः
3 मानुष्यक मानुष्यकम् नपुंसकलिङ्गः मनुष्याणां समूहः वुञ् तद्धितः अकारान्तः
4 ग्रामता ग्रामता स्त्रीलिङ्गः ग्रामाणां समूहः तल् तद्धितः आकारान्तः
5 जनता जनता स्त्रीलिङ्गः जनानां समूहः तल् तद्धितः आकारान्तः
6 धूम्या धूम्या स्त्रीलिङ्गः धूमानां समूहः तद्धितः आकारान्तः
7 पाश्या पाश्या स्त्रीलिङ्गः पाशानां समूहः तद्धितः आकारान्तः
8 गल्या गल्या स्त्रीलिङ्गः गलानांचसमूहः तद्धितः आकारान्तः