अमरकोशः


श्लोकः

ह्रादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटि: स्वरुः शम्बो दम्भोलिरशनिर्द्वयोः ॥ ४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ह्रादिनी ह्रादिनी स्त्रीलिङ्गः ह्रादोऽस्त्यस्या । णिनि कृत् ईकारान्तः
2 वज्र वज्रः पुंलिङ्गः, नपुंसकलिङ्गः व्रजति । रन् उणादिः अकारान्तः
3 कुलिश कुलिशः पुंलिङ्गः, नपुंसकलिङ्गः कुलिनः पर्वतान् श्यति वा । तत्पुरुषः समासः अकारान्तः
4 भिदुर भिदुरः नपुंसकलिङ्गः भिनत्ति । कुरच् उणादिः अकारान्तः
5 पवि पविः पुंलिङ्गः पुनाति । उणादिः इकारान्तः
6 शतकोटि शतकोटिः पुंलिङ्गः शतं कोटयो धारा अस्य । बहुव्रीहिः समासः इकारान्तः
7 स्वरु स्वरुः पुंलिङ्गः स्वरति । उणादिः उकारान्तः
8 शम्ब शम्वः पुंलिङ्गः शाम्यत्यरीन् । वन् उणादिः अकारान्तः
9 दम्भोलि दम्भोलिः पुंलिङ्गः दम्भसि रोधने अलिः समर्थः । तत्पुरुषः समासः इकारान्तः
10 अशनि अशनिः पुंलिङ्गः, स्त्रीलिंङ्गः अश्नाति, अश्यतेऽनेनेति वा । नि उणादिः इकारान्तः