अमरकोशः


श्लोकः

भित्तिः स्त्री कुड्यमेडूकं यदन्तर्न्यस्तकीकसम् । गृहं गेहोदवसितं वेश्म सद्म निकेतनम् ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भित्ती भित्तिः स्त्रीलिङ्गः भिद्यते । क्तिन् कृत् ईकारान्तः
2 कुड्य कुड्यम् नपुंसकलिङ्गः कुट्यां साधु । यत् तद्धितः अकारान्तः
3 एडूक एडूकम् नपुंसकलिङ्गः यत् कुड्यं मध्यन्यस्तास्थि तत् ईड्यते । ऊक उणादिः अकारान्तः
4 गृह गृहम् नपुंसकलिङ्गः गृह्णाति । कृत् अकारान्तः
5 गेह गेहम् पुंलिङ्गः, नपुंसकलिङ्गः गेन गणेशेन ईह्यते काम्यते । घञ् कृत् अकारान्तः
6 उदवासित उदवासितम् नपुंसकलिङ्गः उत् ऊर्ध्वम् अवसीयते स्म । क्त कृत् अकारान्तः
7 वेश्मन् वेश्म नपुंसकलिङ्गः विशन्त्यत्र । मनिन् उणादिः नकारान्तः
8 सद्मन् सद्म नपुंसकलिङ्गः सीदन्त्यत्र । मनिन् उणादिः नकारान्तः
9 निकेतन निकेतनम् नपुंसकलिङ्गः नि केत्यतेऽस्मिन् । युच् उणादिः अकारान्तः