अमरकोशः


श्लोकः

स्वर्ण सुवर्णं कनकं हिरण्यं हेम हाटकम् । तपनीयं शातकुम्भं गाङ्गेयं भर्म कुर्वरम् ॥ ९४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वर्ण स्वर्णम् नपुंसकलिङ्गः सुष्ठु ऋणोति । अच् कृत् अकारान्तः
2 सुवर्ण सुवर्णम् नपुंसकलिङ्गः शोभनो वर्णोऽस्य । बहुव्रीहिः समासः अकारान्तः
3 कनक कनकम् नपुंसकलिङ्गः कनति । वुन् उणादिः अकारान्तः
4 हिरण्य हिरण्यम् नपुंसकलिङ्गः हिनोति, हीयते वा । कन्यन् उणादिः अकारान्तः
5 हेमन् हेम नपुंसकलिङ्गः हिनोति, हीयते वा । मनिन् उणादिः नकारान्तः
6 हाटक हाटकम् नपुंसकलिङ्गः हटति । ण्वुल् कृत् अकारान्तः
7 तपनीय तपनीयम् नपुंसकलिङ्गः तप्यतेऽनेन । अनीयर् कृत् अकारान्तः
8 शातकुम्भ शातकुम्भम् नपुंसकलिङ्गः शतकुम्भे पर्वते भवम् । अण् तद्धितः अकारान्तः
9 गाङ्गेय गाङ्गेयम् नपुंसकलिङ्गः गङ्गाया अपत्यम् । ढक् तद्धितः अकारान्तः
10 भर्मन् भर्म नपुंसकलिङ्गः बिभर्ति, भरति वा । मनिन् उणादिः नकारान्तः
11 कर्बुर कर्बुरम् नपुंसकलिङ्गः कर्वत्यनेन । उरच् उणादिः अकारान्तः