अमरकोशः


श्लोकः

प्रच्छन्नमन्तद्वारं स्यात्पक्षद्वारं तु पक्षकः । वलीकनीध्रे पटलप्रान्तेऽथ पटलं छदिः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रच्छन्न प्रच्छन्नम् नपुंसकलिङ्गः प्रकर्षेण छन्नं द्वारम् । अकारान्तः
2 अन्तर्द्वार अन्तर्द्वारम् नपुंसकलिङ्गः अन्तःस्थितं द्वारम् । अकारान्तः
3 पक्षद्वार पक्षद्वारम् नपुंसकलिङ्गः पक्षे पार्श्वे द्वारम् । अकारान्तः
4 पक्षक पक्षकः पुंलिङ्गः पक्ष इव । कन् तद्धितः अकारान्तः
5 वलीक वलीकः पुंलिङ्गः, नपुंसकलिङ्गः वलत्यावृणोति भित्यादि । कीकन् उणादिः अकारान्तः
6 नीध्र नीध्रम् नपुंसकलिङ्गः नितरां भ्रियते । कृत् अकारान्तः
7 पटल पटलप्रान्तः पुंलिङ्गः पटलस्य छदिषः प्रान्ते ॥ तत्पुरुषः समासः अकारान्तः
8 पटल पटलम् नपुंसकलिङ्गः पटं लाति । तत्पुरुषः समासः अकारान्तः
9 छदिस् छदिः स्त्रीलिङ्गः छादयति । इसि उणादिः सकारान्तः