अमरकोशः


श्लोकः

स्त्री नग्निका कोटवी स्याद् दूतीसञ्चारिके समे । कात्यायन्यर्धवृद्धा या कषायवसनाधवा ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नग्निका नग्निका स्त्रीलिङ्गः नजते स्म । कन् तद्धितः आकारान्तः
2 कोटवी कोटवी स्त्रीलिङ्गः कोटं वाति । ‘ कृत् ईकारान्तः
3 दूती दूती स्त्रीलिङ्गः दवति । क्त उणादिः ईकारान्तः
4 संचारिका संचारिका स्त्रीलिङ्गः संचारयति ण्वुल् कृत् आकारान्तः
5 कात्यायनी कात्यायनी स्त्रीलिङ्गः कतस्यापत्यम् । ष्फ तद्धितः ईकारान्तः