अमरकोशः


श्लोकः

वरणे वरुण: सेतुस्तिक्तशाकः कुमारकः । पुंनागे पुरुषस्तुङ्गः केसरो देववल्लभः ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वरुण वरुणः पुंलिङ्गः वृणोति । उनच् उणादिः अकारान्तः
2 वरण वरणः पुंलिङ्गः ल्युट् कृत् अकारान्तः
3 सेतु सेतुः पुंलिङ्गः सिनोति, सीयते वा । तुन् उणादिः उकारान्तः
4 तिक्तशाक तिक्तशाकः पुंलिङ्गः तिक्त: शाकोऽस्य । बहुव्रीहिः समासः अकारान्तः
5 कुमारक कुमारकः पुंलिङ्गः कुमारश्चिरतरुणत्वात् । अच् कृत् अकारान्तः
6 पुन्नाग पुन्नागः पुंलिङ्गः पुमान् नाग इव । तत्पुरुषः समासः अकारान्तः
7 पुरुष पुरुषः पुंलिङ्गः कुषन् उणादिः अकारान्तः
8 तुङ्ग तुङ्गः पुंलिङ्गः तुञ्ज्यते । घञ् कृत् अकारान्तः
9 केसर केसरः पुंलिङ्गः प्रशस्ता: केसरा अस्य । अच् तद्धितः अकारान्तः
10 देववल्लभ देववल्लभः पुंलिङ्गः देवानां वल्लभः ॥ तत्पुरुषः समासः अकारान्तः