अमरकोशः


श्लोकः

कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् । अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायक: ॥ ६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कृतहस्त कृतहस्तः पुंलिङ्गः कृतोऽभ्यस्तो हस्तो यस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 सुप्रयोगविशिख सुप्रयोगविशिखः पुंलिङ्गः सुप्रयोगो विशिखोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 कृतपुङ्ख कृतपुङ्खः पुंलिङ्गः कृतोऽभ्यस्तः । पुङ्खः पुङ्खयुक्तः शरो येन ॥ बहुव्रीहिः समासः अकारान्तः
4 अपराध्दपृषत्क अपराध्दपृषत्कः पुंलिङ्गः अपराद्धः पृषत्को बाणोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः