अमरकोशः


श्लोकः

घोण्टा तु पूग: क्रमुको गुवाकः खपुरोऽस्य तु । फलमुद्वेगमेते च हिंतालसहितास्त्रयः ॥ खर्जूरः केतकी ताली खजूरी च तृणद्रुमाः ॥ १६९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घोण्टा घोण्टा स्त्रीलिङ्गः घोणते । बाहुलकात् आकारान्तः
2 फूग फूगः पुंलिङ्गः पवते, पुनाति, वा । गन् उणादिः अकारान्तः
3 क्रमुक क्रमुकः पुंलिङ्गः क्रामति । बाहुलकात् अकारान्तः
4 गुवाक गुवाकः पुंलिङ्गः गुवन्त्यनेन । आक उणादिः अकारान्तः
5 खपुर खपुरः पुंलिङ्गः खमिन्द्रियमाकाशं वा पिपर्ति । कृत् अकारान्तः
6 उद्वेग उद्वेगम् नपुंसकलिङ्गः उद्गतो वेगोऽस्मात् । बहुव्रीहिः समासः अकारान्तः
7 हिन्ताल हिन्तालः पुंलिङ्गः हीनोऽल्पस्तालः। तत्पुरुषः समासः अकारान्तः
8 खर्जूर खर्जूरः पुंलिङ्गः खर्जति । उर उणादिः अकारान्तः
9 केतकी केतकी पुंलिङ्गः, स्त्रीलिङ्गः केतयति । क्वुन् उणादिः ईकारान्तः
10 ताली ताली स्त्रीलिङ्गः तालयति । अच् कृत् ईकारान्तः
11 खर्जुरी खर्जुरी स्त्रीलिङ्गः ङीष् स्त्रीप्रत्ययः ईकारान्तः