अमरकोशः


श्लोकः

ऊषणा पिप्पली शौण्डी कोलाऽथ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ॥ ९७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उषणा उषणा स्त्रीलिङ्गः ओषति । क्युन् उणादिः आकारान्तः
2 पिप्पली पिप्पली स्त्रीलिङ्गः पिपर्ति । अलच् बाहुलकात् ईकारान्तः
3 शौण्डी शौण्डी स्त्रीलिङ्गः शुण्डायां मद्यपानगृहे भवा । अण् तद्धितः ईकारान्तः
4 कोला कोला स्त्रीलिङ्गः कोलति । अच् कृत् आकारान्तः
5 करिपिप्पली करिपिप्पली स्त्रीलिङ्गः करीव पिप्पली । तत्पुरुषः समासः ईकारान्तः
6 कपिवल्ली कपिवल्ली स्त्रीलिङ्गः कपिरिव वल्ली ॥ तत्पुरुषः समासः ईकारान्तः
7 कोलवल्ली कोलवल्ली स्त्रीलिङ्गः कोल इव वल्ली । तत्पुरुषः समासः ईकारान्तः
8 श्रेयसी श्रेयसी स्त्रीलिङ्गः ईयसुन् तद्धितः ईकारान्तः
9 वसिर वसिरः पुंलिङ्गः वस्ते । किरच् बाहुलकात् अकारान्तः