अमरकोशः


श्लोकः

आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् । सन्नद्धो वर्मितः सज्जो दंशितो व्यूढकङ्कटः ॥ ६५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आमुक्त आमुक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आमुच्यते स्म । क्त कृत् अकारान्तः
2 प्रतिमुक्त प्रतिमुक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रतेरपि ॥ क्त कृत् अकारान्तः
3 पिनद्ध पिनद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपि नह्यते स्म । क्त कृत् अकारान्तः
4 अपिनध्द अपिनध्दः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपि नह्यते स्म । क्त कृत् अकारान्तः
5 संनद्ध संनद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संनह्यति, संनह्यते, वा स्म । क्त कृत् अकारान्तः
6 वर्मित वर्मितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वर्मणा नह्यते स्म । इतच् तद्धितः अकारान्तः
7 सज्ज सज्जः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सज्जति । अच् कृत् अकारान्तः
8 दंशित दंशितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दंशः सञ्जातोऽस्य । इतच् तद्धितः अकारान्तः
9 व्यूढकङ्कट व्यूढकङ्कटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यूढो धृतः कङ्कटो येन ॥ बहुव्रीहिः समासः अकारान्तः