अमरकोशः


श्लोकः

आरालिका अन्धसिकाः सूदा औदनिका गुणा: । आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आरालिक आरालिकः पुंलिङ्गः अरालं कुटिलं चरन्ति । ठक् तद्धितः अकारान्तः
2 आन्धसिक आन्धसिकः पुंलिङ्गः अन्धो भक्तं शिल्पं येषाम् । ठक् तद्धितः अकारान्तः
3 सूद सूदः पुंलिङ्गः सूदन्ति छागादीन् । अच् कृत् अकारान्तः
4 औदनिक औदनिकः पुंलिङ्गः ओदनं शिल्पं येषाम् । ठक् तद्धितः अकारान्तः
5 गुण गुणः पुंलिङ्गः गुणयते । अच् कृत् अकारान्तः
6 आपूपिक आपूपिकः पुंलिङ्गः अपूपाः पण्यमस्य । ठक् तद्धितः अकारान्तः
7 कान्दविक कान्दविकः पुंलिङ्गः कन्दौ संस्कृतम् । ठक् तद्धितः अकारान्तः
8 भक्ष्यकार भक्ष्यकारः पुंलिङ्गः भक्षं करोति । अण् कृत् अकारान्तः