अमरकोशः


श्लोकः

तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तला: । ते ललाटे भ्रमरका: काकपक्षः शिखण्डकः ॥ ९६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कैशिक कैशिकम् नपुंसकलिङ्गः केशानां समूहः । ठक् तद्धितः अकारान्तः
2 कैश्य कैश्यम् नपुंसकलिङ्गः यञ् तद्धितः अकारान्तः
3 अलक अलकः पुंलिङ्गः अलति, अल्यते, वा । वुन् उणादिः अकारान्तः
4 चूर्णकुन्तल चूर्णकुन्तलः पुंलिङ्गः चूर्णस्य कर्चुरादिक्षोदस्य कुन्तलाः ॥ तत्पुरुषः समासः अकारान्तः
5 भ्रमरक भ्रमरकः पुंलिङ्गः भ्रमर इव कन् तद्धितः अकारान्तः
6 काकपक्ष काकपक्षः पुंलिङ्गः काकस्य पक्ष इव ॥ तत्पुरुषः समासः अकारान्तः
7 शिखण्डक शिखण्डकः पुंलिङ्गः शिखाया अण्ड इव । तत्पुरुषः समासः अकारान्तः