अमरकोशः


श्लोकः

व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् । ऊर्ध्वविस्तृतदो: पाणिनृमाने पौरुषं त्रिषु ॥ ८७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्याम व्यामः पुंलिङ्गः विशेषेण अम्यतेऽनेन । घञ् कृत् अकारान्तः
2 पौरुष पौरुषः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दोषौ च पाणी च । अण् तद्धितः अकारान्तः