अमरकोशः


श्लोकः

त्रिष्विष्टेऽल्पे लघुः काचा: शिक्यमृद्भेददृग्रुजः । विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लघु लघुः पुंलिङ्गः लङ्घ्यते उणादिः उकारान्तः
2 काच काचः पुंलिङ्गः कच्यते अनेन घञ् कृत् अकारान्तः
3 प्रपञ्च प्रपञ्चः पुंलिङ्गः प्रपञ्चते अच् कृत् अकारान्तः
4 शुचि शुचिः पुंलिङ्गः शोचत्यनेन इन् कृत् इकारान्तः