अमरकोशः


श्लोकः

महीधे शिखरिक्ष्माभृदहार्यधरपर्वताः । अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 महीध्र महीध्रः पुंलिङ्गः महीं धरति । तत्पुरुषः समासः अकारान्तः
2 शिखरिन् शिखरी पुंलिङ्गः शिखरमस्यास्ति । इनि तद्धितः नकारान्तः
3 क्ष्माभृत् क्ष्माभृत् पुंलिङ्गः क्ष्मां बिभर्ति । तत्पुरुषः समासः तकारान्तः
4 अहार्य अहार्यः पुंलिङ्गः न हार्यः । तत्पुरुषः समासः अकारान्तः
5 धर धरः पुंलिङ्गः धरति । अच् कृत् अकारान्तः
6 पर्वत पर्वतः पुंलिङ्गः पर्वाणि सन्त्यत्र । तन् उणादिः अकारान्तः
7 अद्रि अद्रिः पुंलिङ्गः अत्ति, अद्यते, वा । क्रिन् उणादिः इकारान्तः
8 गोत्र गोत्रः पुंलिङ्गः गां त्रायते । तत्पुरुषः समासः अकारान्तः
9 गिरि गिरिः पुंलिङ्गः कि बाहुलकात् इकारान्तः
10 ग्रावन् ग्रावा पुंलिङ्गः ग्रसते । वनिप् कृत् नकारान्तः
11 अचल अचलः पुंलिङ्गः न चलति । अच् कृत् अकारान्तः
12 शैल शैलः पुंलिङ्गः प्रचुराः शिलाः सन्त्यत्र । अण् तद्धितः अकारान्तः
13 शिलोच्चय शिलोच्चयः पुंलिङ्गः शिलाभिरुच्चीयते । तत्पुरुषः समासः अकारान्तः