अमरकोशः


श्लोकः

तोत्रं वैणुकमालानं बन्धस्तम्भेऽथ शृङ्खला । अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 तोत्र तोत्रम् नपुंसकलिङ्गः तुद्यतेऽनेन । ष्ट्रन् कृत् अकारान्तः
2 वैणुक वैणुकम् नपुंसकलिङ्गः वेणुना निर्वृतम् । ठक् तद्धितः अकारान्तः
3 आलान आलानम् नपुंसकलिङ्गः आलीयतेऽत्र ल्युट् कृत् अकारान्तः
4 बन्धस्तम्भः बन्धस्तम्भः पुंलिङ्गः बन्धस्य बन्धनस्य स्तम्भः ॥ तत्पुरुषः समासः
5 शृङ्खला शृङ्खला पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शृङ्गं प्राधान्यं खलति । अच् कृत् आकारान्तः
6 अन्दुक अन्दुकः पुंलिङ्गः अन्द्यतेऽनेन । कू उणादिः अकारान्तः
7 निगड निगडः पुंलिङ्गः, नपुंसकलिङ्गः निर्गतो गडः सेचनमस्मात् कठिनत्वात् । बहुव्रीहिः समासः अकारान्तः
8 अङ्कुश अङ्कुशः पुंलिङ्गः, नपुंसकलिङ्गः अङ्क्यतेऽनेन । असि उणादिः अकारान्तः
9 सृणि सृणिः स्त्रीलिङ्गः सरति अन्तर्गच्छति । नि उणादिः इकारान्तः