अमरकोशः


श्लोकः

यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते । तस्मिन्नानाय्योऽथाग्नायी स्वाहा च हुतभुग्प्रिया ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आनाय्य आनाय्यः पुंलिङ्गः आनीयते निपातनात् अकारान्तः
2 अग्नायी अग्नायी स्त्रीलिङ्गः तद्धितः ईकारान्तः
3 स्वाहा स्वाहा स्त्रीलिङ्गः सुष्टु आहूयन्ते देवा अनया । कृत् आकारान्तः
4 हुतभुक्प्रिया हुतभुक्प्रिया स्त्रीलिङ्गः हुतभुजः प्रिया ॥ तत्पुरुषः समासः आकारान्तः