अमरकोशः


श्लोकः

इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः । वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 इन्द्र इन्द्रः पुंलिङ्गः इन्दति । रन् उणादिः अकारान्तः
2 मरुत्वत् मरुत्वान् पुंलिङ्गः मरुतः सन्त्यस्य । मतुप् तद्धितः तकारान्तः
3 मघवत् मघवा पुंलिङ्गः मह्यते पूज्यते । कनिन् उणादिः तकारान्तः
4 विडौजस् विडौजाः पुंलिङ्गः विडं भेदकमोजोऽस्य । बहुव्रीहिः समासः सकारान्तः
5 पाकशासन पाकशासनः पुंलिङ्गः पाकस्य दैत्यभेदस्य शासनः । तत्पुरुषः समासः अकारान्तः
6 वृद्धश्रवस् वृद्धश्रवाः पुंलिङ्गः वृद्धेभ्यः शृणोति । तत्पुरुषः समासः सकारान्तः
7 सुनासीर सुनासीरः पुंलिङ्गः सुष्टु नासीरं सेनामुखम्, नासीरा अग्रेसरा वा यस्य द्विदन्त्यः । बहुव्रीहिः समासः अकारान्तः
8 पुरुहूत पुरुहूतः पुंलिङ्गः पुरु प्रचुरं हूतमाह्वानं यज्ञेष्वस्य । बहुव्रीहिः समासः अकारान्तः
9 पुरंदर पुरंदरः पुंलिङ्गः पुरोऽरीणां दारयति । तत्पुरुषः/खच् समासः अकारान्तः