अमरकोशः


श्लोकः

अमृता च वयस्था च त्रिलिङ्गस्तु विभीतकः । नाक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥ ५८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अमृता अमृता स्त्रीलिङ्गः न म्रियन्तेऽनया । तत्पुरुषः समासः आकारान्तः
2 वयस्था वयस्था स्त्रीलिङ्गः वयो यौवनं तिष्ठत्यनया । कृत् आकारान्तः
3 विभीतक विभीतकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विगतं भीतं रोगभयमस्मात् । कन् तद्धितः अकारान्तः
4 अक्ष अक्षः पुंलिङ्गः अक्षति । अच् कृत् अकारान्तः
5 तुष तुषः पुंलिङ्गः तुष्यति । कृत् अकारान्तः
6 कर्षफल कर्षफलः पुंलिङ्गः कर्षः फलमस्य ॥ बहुव्रीहिः समासः अकारान्तः
7 भूतावास भूतावासः पुंलिङ्गः भूतानामावासः ॥ तत्पुरुषः समासः अकारान्तः
8 कलिद्रुम कलिद्रुमः पुंलिङ्गः कलेद्रुमः ॥ तत्पुरुषः समासः अकारान्तः