अमरकोशः


श्लोकः

रसगर्भ तार्क्ष्यशैलं गन्धाश्मनि तु गन्धकः । सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका ॥ १०२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रसगर्भ रसगर्भम् नपुंसकलिङ्गः रसो गर्भेऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
2 तार्क्ष्यशैल तार्क्ष्यशैलम् नपुंसकलिङ्गः तार्क्ष्यशैले भवम् । अण् तद्धितः अकारान्तः
3 गन्धाश्मन् गन्धाश्मन् पुंलिङ्गः गन्धयुक्तोऽश्मा । तत्पुरुषः समासः नकारान्तः
4 गन्धक गन्धकः पुंलिङ्गः गन्धोऽस्यास्ति । अच् तद्धितः अकारान्तः
5 सौगन्धिक सौगन्धिकः पुंलिङ्गः शोभनो गन्धोऽस्य । ठक् तद्धितः अकारान्तः
6 चक्षुष्या चक्षुष्या स्त्रीलिङ्गः चक्षुषे हिता । यत् तद्धितः आकारान्तः
7 कुलाली कुलाली स्त्रीलिङ्गः कुलमलति । अण् कृत् ईकारान्तः
8 कुलत्थिका कुलत्थिका स्त्रीलिङ्गः कुलत्थप्रतिकृतिः । कन् तद्धितः आकारान्तः