अमरकोशः


श्लोकः

पुनर्नवा तु शोथघ्नी वितुन्नं सुनिषण्णकम् । स्याद्वातक: शीतलोऽपराजिता शणपर्ण्यपि ॥ १४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पुनर्नवा पुनर्नवा स्त्रीलिङ्गः पुनरभीक्ष्णं नवा । बहुव्रीहिः समासः आकारान्तः
2 शोथघ्नी शोथघ्नी स्त्रीलिङ्गः शोथं हन्ति । टक् कृत् ईकारान्तः
3 वितुन्न वितुन्नम् नपुंसकलिङ्गः विगतं तुन्नं व्यथनमस्मात् । बहुव्रीहिः समासः अकारान्तः
4 सुनिषण्णक सुनिषण्णकम् नपुंसकलिङ्गः सुष्ठः निषण्णमस्मात् ॥ बहुव्रीहिः समासः अकारान्तः
5 वातक वातकः पुंलिङ्गः वातं करोति कृत् अकारान्तः
6 शीतल शीतलः पुंलिङ्गः शीतं लाति । कृत् अकारान्तः
7 अपराजिता अपराजिता स्त्रीलिङ्गः न पराजिता । तत्पुरुषः समासः आकारान्तः
8 शणपर्णी शणपर्णी स्त्रीलिङ्गः शणः पर्णान्यस्याः। बहुव्रीहिः समासः ईकारान्तः