अमरकोशः


श्लोकः

न्युब्जो भुग्ने रुजा वृद्धनाभौ तुण्दिभतुण्डिलौ । किलासी सिध्मलोऽन्धोऽदृक् मूर्छाले मूर्तमूर्छितौ ॥ ६१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 न्युब्ज न्युब्जः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न्युब्जनम् । घञ् कृत् अकारान्तः
2 वृद्धनाभि वृद्धनाभिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वृद्धा उन्नता नाभिरस्य ॥ बहुव्रीहिः समासः इकारान्तः
3 तुण्डिल तुण्डिलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तुण्ड्यते । इन् उणादिः अकारान्तः
4 तुण्डिभ तुण्डिभः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लच् तद्धितः अकारान्तः
5 किलासिन् किलासी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः किलासमस्यास्ति । इनि तद्धितः नकारान्तः
6 सिध्मल सिध्मलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सिध्यमस्यास्ति । लच् तद्धितः अकारान्तः
7 अन्ध अन्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अन्धयति । अच् कृत् अकारान्तः
8 अदृश् अदृक् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न दृगस्य ॥ तत्पुरुषः समासः शकारान्तः
9 मूर्च्छाल मूर्च्छालः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूर्छास्यास्ति । लच् तद्धितः अकारान्तः
10 मूर्त मूर्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूर्छति स्म । क्त कृत् अकारान्तः
11 मूर्च्छित मूर्च्छितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूर्छा जातास्य । इतच् तद्धितः अकारान्तः