अमरकोशः


श्लोकः

वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् । कौशेयं कमिकोशोत्थं राङ्कवं मृगरोमजम् ॥ १११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वाल्क वाल्कः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वल्कस्य विकारः अण् तद्धितः अकारान्तः
2 फाल फालः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः फलस्य विकारः । अण् तद्धितः अकारान्तः
3 कार्पास कार्पासः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्पास्या बदरायाश्च विकारः फलम् । अण् तद्धितः अकारान्तः
4 बादर बादरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्पास्या बदरायाश्च विकारः फलम् । अण् तद्धितः अकारान्तः
5 कौशेय कौशेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कोशे सम्भूतः । ढञ् तद्धितः अकारान्तः
6 राङ्कव राङ्कवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रङ्कौ भवम् । अण् तद्धितः अकारान्तः