अमरकोशः


श्लोकः

रत्नाकरो जलनिधिर्याद: पतिरपांपतिः । तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रत्नाकर रत्नाकरः पुंलिङ्गः रत्नानामाकरः ॥ तत्पुरुषः समासः समासः अकारान्तः
2 जलनिधि जलनिधिः पुंलिङ्गः जलानि निधीयन्तेऽत्र । किः कृत् इकारान्तः
3 याद:पति याद:पतिः पुंलिङ्गः यादसां जलजन्तूनां पतिः ॥ तत्पुरुषः समासः समासः इकारान्तः
4 अपांपति अपांपतिः पुंलिङ्गः अपां पतिः ॥ इकारान्तः
5 क्षीरोद क्षीरोदः पुंलिङ्गः क्षीरमुदकं यस्य । बहुव्रीहिः समासः अकारान्तः
6 लवणोद लवणोदः पुंलिङ्गः अकारान्तः