अमरकोशः


श्लोकः

फुल्लश्चैते विकसिते स्युरबन्ध्यादयस्त्रिषु । स्थाणुर्वा ना ध्रुवः शङ्कुः ह्रस्वशाखाशिफ: क्षुपः ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 फुल्ल फुल्लः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रफुल्लविति । क्त कृत् अकारान्तः
2 विकसित विकसितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्यकासीत् । क्त कृत् अकारान्तः
3 स्थाणु स्थाणुः पुंलिङ्गः, नपुंसकलिङ्गः णु उणादिः उकारान्तः
4 ध्रुव ध्रुवः पुंलिङ्गः ध्रुवो वटे । कः कृत् अकारान्तः
5 शङ्कु शङ्कुः पुंलिङ्गः शङ्कतेऽस्मात् । कु उणादिः उकारान्तः
6 क्षुप क्षुपः पुंलिङ्गः ह्रस्वे शाखाशिफे यस्य । बाहुलकात् अकारान्तः