अमरकोशः


श्लोकः

धेनुका तु करेण्वां च मेघजाले च कालिका । कारिका यातनाकृत्योः कर्णिका कर्णभूषणे ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धेनुका धेनुका स्त्रीलिङ्गः धेनुरेव कन् तद्धितः आकारान्तः
2 कालिका कालिका स्त्रीलिङ्गः कालो वर्णोऽस्त्यस्याः ठन् तद्धितः आकारान्तः
3 कारिका कारिका स्त्रीलिङ्गः करणम् ण्वुल् कृत् आकारान्तः
4 कर्णिका कर्णिका स्त्रीलिङ्गः कर्णस्यालंकारः कन् तद्धितः आकारान्तः