अमरकोशः


श्लोकः

निष्ठा निष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि । त्रिषु ज्येष्ठोऽतिशस्तेऽपि कनिष्ठोऽतियुवाल्पयोः ॥ ४१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निष्ठा निष्ठा स्त्रीलिङ्गः निष्ठानम् अङ् कृत् आकारान्तः
2 काष्ठा काष्ठा स्त्रीलिङ्गः काशते क्थन् उणादिः आकारान्तः
3 ज्येष्ठ ज्येष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन प्रशस्तः इष्ठन् तद्धितः अकारान्तः
4 कनिष्ठ कनिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन युवा, अल्पो वा इष्ठन् तद्धितः अकारान्तः