अमरकोशः


श्लोकः

क्ष्वेडा तु सिंहनादः स्यात् करिणां घटना घटा । क्रन्दनं योधसंरावो बृंहितं करिगर्जितम् ॥ १०७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्ष्वेडा क्ष्वेडा स्त्रीलिङ्गः क्ष्वेदनम् । घञ् कृत् आकारान्तः
2 सिंहनाद सिंहनादः पुंलिङ्गः सिंहवन्नदनम् । घञ् कृत् अकारान्तः
3 घटना घटना स्त्रीलिङ्गः घटनम् । युच् कृत् आकारान्तः
4 घटा घटा स्त्रीलिङ्गः घटनम् । अङ् कृत् आकारान्तः
5 क्रन्दन क्रन्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 योधसंराव योधसंरावः पुंलिङ्गः योधानां संवरणम् । घञ् कृत् अकारान्तः
7 बृंहित बृंहितम् नपुंसकलिङ्गः बृंहणम् । क्त कृत् अकारान्तः
8 करिगर्जित करिगर्जितम् नपुंसकलिङ्गः करिणां गर्जनम् । क्त कृत् अकारान्तः