अमरकोशः


श्लोकः

शूलाकृतं भटित्रं च शूल्यमुख्यं तु पैठरम् । प्रणीतमुपसम्पन्नं प्रयस्तं स्यात्सुसंस्कृतम् ॥ ४५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शूलाकृत शूलाकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शूलेन कृतम् । डाच् तद्धितः अकारान्तः
2 भटित्र भटित्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भटति । इत्र उणादिः अकारान्तः
3 शूल्य शूल्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शूले संस्कृतम् । यत् तद्धितः अकारान्तः
4 उख्य उख्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उखायां संस्कृतम् । यत् तद्धितः अकारान्तः
5 पैठर पैठरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पिठरे संस्कृतं अण् तद्धितः अकारान्तः
6 प्रणीत प्रणीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रणीयते स्म । क्त कृत् अकारान्तः
7 उपसम्पन्न उपसम्पन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपसम्पद्यते स्म । क्त कृत् अकारान्तः
8 प्रयस्त प्रयस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रयस्यते स्म । क्त कृत् अकारान्तः
9 सुसंस्कृत सुसंस्कृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सुष्ठु संस्क्रियते स्म । क्त कृत् अकारान्तः