अमरकोशः


श्लोकः

स्यात्कुलीर: कर्कटकः कूर्मे कमठकच्छपौ । ग्राहोऽवहार नक्रस्तु कुम्भीरोऽथ महीलता ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुलीर कुलीरः पुंलिङ्गः कुलति । रक् उणादिः अकारान्तः
2 कर्कटक कर्कटकः पुंलिङ्गः कृणाति । विच् कृत् अकारान्तः
3 कूर्म कूर्मः पुंलिङ्गः कुत्सितः कौ वा ऊर्मिर्वेगोऽस्य । तत्पुरुषः समासः समासः अकारान्तः
4 कमठ कमठः पुंलिङ्गः के जले मठति, इति वा । ठः कृत् अकारान्तः
5 कच्छप कच्छपः पुंलिङ्गः कच्छेन पिबति । कः कृत् अकारान्तः
6 ग्राह ग्राहः पुंलिङ्गः गृह्णाति । णः कृत् अकारान्तः
7 अवहार अवहारः पुंलिङ्गः णः कृत् अकारान्तः
8 नक्र नक्रः पुंलिङ्गः दूरस्थलम् । डः कृत् अकारान्तः
9 कुम्भीर कुम्भीरः पुंलिङ्गः कुम्भिनं हस्तिनमीरयति । अण् कृत् अकारान्तः
10 महीलता महीलता स्त्रीलिङ्गः मह्या लतेव । आकारान्तः